मा नो॒ मर्ता॑य रि॒पवे॑ रक्ष॒स्विने॒ माघशं॑साय रीरधः । अस्रे॑धद्भिस्त॒रणि॑भिर्यविष्ठ्य शि॒वेभि॑: पाहि पा॒युभि॑: ॥
mā no martāya ripave rakṣasvine māghaśaṁsāya rīradhaḥ | asredhadbhis taraṇibhir yaviṣṭhya śivebhiḥ pāhi pāyubhiḥ ||
मा । नः॒ । मर्ता॑य । रि॒पवे॑ । र॒क्ष॒स्विने॑ । मा । अ॒घऽशं॑साय । री॒र॒धः॒ । अस्रे॑धत्ऽभिः । त॒रणि॑ऽभिः । य॒वि॒ष्ठ्य॒ । शि॒वेभिः॑ । पा॒हि॒ । पा॒युऽभिः॑ ॥ ८.६०.८